स वा॑वशा॒न इ॒ह पा॑हि॒ सोमं॑ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ ।
जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू॑षन्म॒हे भरा॑य पुरुहूत॒ विश्वे॑ ॥
सः । वा॒व॒शा॒नः । इ॒ह । पा॒हि॒ । सोम॑म् । म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । सु॒तम् । नः॒ ।
जा॒तम् । यत् । त्वा॒ । परि॑ । दे॒वाः । अभू॑षन् । म॒हे । भरा॑य । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥
हे इन्द्र वावशानः सोमं कामयमानः स तादृशस्त्वं सखिभिः समानख्यानैर्मरुद्भिः सह नोऽस्मत्संबन्धिनीहास्मिन्यज्ञे सुतमभिशुतं सोमं पाहि । पिब । हे पुरुहुत पुरुभिराहूतेन्द्र जतं पानेन प्रबलं सम्पन्नं यत् यं त्वां विश्वेसर्वे देवा महे महते भराय । ह्रियन्ते योधानामायूंष्यत्रेति भरः सङ्ग्रामः । तस्मै सङ्ग्रामाय पर्यभूषन् । सर्वतोऽलमकुर्वन् । वावशानः । वशेर्यङ् लुकि चानशि रूपम् । चित्त्वादन्तोदात्तः । अभूशन् । भूष अलङ्कारे । भूवादिः । लङि रूपम् । यद्योगादनिघातः । भराय । हृञ् हरणे । अधिकरणे घः । हृग्रहोर्भश्छन्दसिति हकारस्य भकारः । व्रुषादित्वादाद्युदात्तः ॥ ८ ॥