मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् ९

संहिता

अ॒प्तूर्ये॑ मरुत आ॒पिरे॒षोऽम॑न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः ।
तेभि॑ः सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं॑ दा॒शुष॒ः स्वे स॒धस्थे॑ ॥

पदपाठः

अ॒प्ऽतूर्ये॑ । म॒रु॒तः॒ । आ॒पिः । ए॒षः । अम॑न्दन् । इन्द्र॑म् । अनु॑ । दाति॑ऽवाराः ।
तेभिः॑ । सा॒कम् । पि॒ब॒तु॒ । वृ॒त्र॒ऽखा॒दः । सु॒तम् । सोम॑म् । दा॒शुषः॑ । स्वे । स॒धऽस्थे॑ ॥

सायणभाष्यम्

हे मरुतो य एष इन्द्रोऽप्तूर्येऽपां प्रेरन आपिर्युष्माकं सखासन् वर्तते दातिवाराः । वारो वरणीयं बलं धनं वा । दत्तबला दत्तधना वा ते मरुतस्तमिन्द्रमन्वमन्दन् । अहृष्यन् । वृत्रखादो वृत्रस्य हिंसकः स इन्द्रस्तेभिस्तैर्मरुद्भिः साकं दाशुषो हविर्दत्तवतो यजमानस्य स्वे स्वकीये सधस्थे । सह तिष्ठन्त्यस्मिन्निति सधस्थं गृहम् । तस्मिन् सुतमभिषुतं सोमं पिबतु । अप्तूर्ये । तूरी त्वराहिंसयोरित्यस्मादघ्न्यादयश्चेति यत्प्रत्ययः । यतोऽनाव इत्याद्युदात्तः । समासे कृदुत्तरपदस्वरः । अमन्दन् । मदि स्तुत्यादिषु । परस्मैपदी । पादादित्वादनिघातः । वृत्रखादः । खादृ भक्षणे । कर्मण्यङ् । दाशुषः । दातृ दान इत्यस्य क्वसौ दाश्वान्साह्वान्शीढ्वांश्चेति द्विर्वचनाद्यभावः । वसोः सम्प्रसारणम् । प्रत्ययस्वरः । सधस्थे । सध मादस्थयोश्छन्दसीति सहस्य सधादेशः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६