मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५१, ऋक् १०

संहिता

इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां पते ।
पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥

पदपाठः

इ॒दम् । हि । अनु॑ । ओज॑सा । सु॒तम् । रा॒धा॒ना॒म् । प॒ते॒ ।
पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ ॥

सायणभाष्यम्

हे राधानां पते धनानां स्वामिन् गिर्वणो गीर्भिः स्तुतिभिर्वननीय हे इन्द्र इदमनु अनेनानुक्रमेण । उद्देशानुक्रमेणेत्यर्थः । ओजसा बलेन ग्रावभिः सुतमभिषुतं सोमं तु क्शिप्रं पिब हि ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६