मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५२, ऋक् २

संहिता

पु॒रो॒ळाशं॑ पच॒त्यं॑ जु॒षस्वे॒न्द्रा गु॑रस्व च ।
तुभ्यं॑ ह॒व्यानि॑ सिस्रते ॥

पदपाठः

पु॒रो॒ळाश॑म् । प॒च॒त्य॑म् । जु॒षस्व॑ । इ॒न्द्र॒ । आ । गु॒र॒स्व॒ । च॒ ।
तुभ्य॑म् । ह॒व्यानि॑ । सि॒स्र॒ते॒ ॥

सायणभाष्यम्

हे इन्द्र पचत्यण् पचने साधुं पुरोडाशम् । पुरो दाशन्त एनमिति पुरोडाशो हविः । जुषस्व । कि~च आ गुरस्व । पुरोडाशभक्षणार्थमुद्यमं कुरु । हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि तुभ्यं त्वदर्थं सिस्रते । आहवनीयं गच्छन्ति । तानि सेवस्वेति भावः । पचत्यम् । पचतशब्दात्तत्र साधुरिति यत्प्रत्ययान्तस्य पदस्य द्व्य्च् त्वाभावादत्र यतोऽनाव इत्यस्य प्राप्तिर्नास्ति । तित्स्वरितः । गुरस्व । गुरी उद्यमने । शविकरणी । निघातः । सिस्रते । सृ गतौ । छन्दसि जुहोत्यादिः । व्यत्ययेनात्मनेपदं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७