पु॒रो॒ळाशं॑ च नो॒ घसो॑ जो॒षया॑से॒ गिर॑श्च नः ।
व॒धू॒युरि॑व॒ योष॑णाम् ॥
पु॒रो॒ळाश॑म् । च॒ । नः॒ । घसः॑ । जो॒षया॑से । गिरः॑ । च॒ । नः॒ ।
व॒धू॒युःऽइ॑व । योष॑णाम् ॥
हे इन्द्र नोऽस्मत्सम्बन्धिनं पुरोडाशं घसः । भक्शय च । नोऽस्मदीयाः स्तुतिलक्शणा गिरो जोशयासे । सेवस्य च । तत्र दृष्टान्तः । वधूयुरिव योषणाम् । यथा वधूयुः स्त्रीकामो योशणां भजनीयां युवतिं सेवते तद्वत् । घसः । घस्लृ अदन इत्यस्य लेटुयडागमे रूपम् । चवायोगे प्रथमेति न निघातः । चोषयासे । जुषी प्रीतिसेवनयोरित्यस्य ण्यन्तस्य लेट्याडागमे रूपम् । आगमस्यानुदात्तत्वे णिच् स्वरः । पादादित्वादनिघातः । वधूयुरिव । सुप आत्मनः क्यच् । क्याच्छन्दसीत्युप्रत्ययः । प्रत्ययस्वरः । योषणाम् । युष भजन इति सौत्रो धातुः । कृत्यल्युटो बहुलमिति ल्युट् । लित्स्वरः ॥ ३ ॥