मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५२, ऋक् ४

संहिता

पु॒रो॒ळाशं॑ सनश्रुत प्रातःसा॒वे जु॑षस्व नः ।
इन्द्र॒ क्रतु॒र्हि ते॑ बृ॒हन् ॥

पदपाठः

पु॒रो॒ळाश॑म् । स॒न॒ऽश्रु॒त॒ । प्रा॒तः॒ऽसा॒वे । जु॒ष॒स्व॒ । नः॒ ।
इन्द्र॑ । क्रतुः॑ । हि । ते॒ । बृ॒हन् ॥

सायणभाष्यम्

हे सनश्रुत पुराणतया प्रसिद्ध हे इन्द्र नोऽस्मत्सम्बन्धिनमिमः पुरोडाशं प्रातस्सावे । सूयतेऽत्र सोम इति सावः । तस्मिन् प्रातः सवने जुषस्व । यतस्ते पा तव क्रतुः क्रम बृहन् महद्धि । प्रातःसावे । षुञ् अभिषवे । कर्मणि घञ् । प्रादिसमासः । थाथादिस्वरेणान्तोदात्तः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७