मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५२, ऋक् ६

संहिता

तृ॒तीये॑ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः ।
ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभि॑ः ॥

पदपाठः

तृ॒तीये॑ । धा॒नाः । सव॑ने । पु॒रु॒ऽस्तु॒त॒ । पु॒रो॒ळाश॑म् । आऽहु॑तम् । म॒म॒ह॒स्व॒ । नः॒ ।
ऋ॒भु॒ऽमन्त॑म् । वाज॑ऽवन्तम् । त्वा॒ । क॒वे॒ । प्रय॑स्वन्तः । उप॑ । शि॒क्षे॒म॒ । धी॒तिऽभिः॑ ॥

सायणभाष्यम्

तृतीय सवने सवनीयपुरोडाशस्य तृतीये धाना इत्यनुवाक्या । सूत्रितं च । तृतीये धानाः सवने पुरुष्टुतेति तृतीयसवने । आ. ५-४ । इति ॥

हे पुरुष्टुत पुरुभिर्बहुभिः स्तोतृभिः स्तुत हे इन्द्र तृतीयए सवने नोऽस्मदीयान्धाना हुतान् भृष्टयवानाहुतं पुरोडाशं च मामहस्व । भक्षणेन महय । संभावय । हे कवे इन्द्र प्रयस्वन्तः संभृतहविष्का वयमृभुमन्तम् । ऋभवो ये केचन देवास्तद्वन्तम् । वाजवन्तम् । वाचो नाम सुधन्वनः पुत्रस्तद्वन्तं त्वां धीतिभिः स्तुतिभिरुप शिक्षेम । समीपे परिचरेम । आहुतम् । जुहोतेः कर्मणि क्तः । गतिरनन्तर इति गतेः स्वरः । मामहस्व । मह पूरायामित्यस्य यङ् लुगन्त्यस्य लोटि व्यत्ययेनात्मने पदम् । शपो लुगाभावश्छान्दसः । शिक्षेम । शिक्षतेराशीर्लिङि लिङ्यातिष्यङ्गित्यङ् प्रत्य्त्यः । निघातः । धीतिभिः । हिष्थवत्सरतिशत्थान्तानामित्यन्तोदात्तत्वं ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८