मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५२, ऋक् ७

संहिता

पू॒ष॒ण्वते॑ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः ।
अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भि॒ः सोमं॑ पिब वृत्र॒हा शू॑र वि॒द्वान् ॥

पदपाठः

पू॒ष॒ण्ऽवते॑ । ते॒ । च॒कृ॒म॒ । क॒र॒म्भम् । हरि॑ऽवते । हरि॑ऽअश्वाय । धा॒नाः ।
अ॒पू॒पम् । अ॒द्धि॒ । सऽग॑णः । म॒रुत्ऽभिः॑ । सोम॑म् । पि॒ब॒ । वृ॒त्र॒ऽहा । शू॒र॒ । वि॒द्वान् ॥

सायणभाष्यम्

हे इन्द्र पूषण्वते । पूष नाम कश्चिद्देवोऽदन्तकः । तद्वते ते तुभ्यं करंभं दधिमिश्रं सक्तुं चकृम । भक्षणार्थं कुर्मः । तथा च श्रुतिः । पूशा प्रपिष्त भागोऽदन्तको हि । तै. सं. २-६-८ । इति हरिवते । हरिनामकावश्वौ । तद्वते चर्यश्वाय हरितवर्णाश्वयुक्तायेन्द्राय तुभ्यं धाना भक्षणार्थं कुर्मः । तथा च मन्त्रवर्णः । ग्रसेकामश्वावि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः । ऋग्वे. ३-३५-३ । इति मरुद्भिः सगणस्त्वमपूपं पुरोढाशमद्धि । भक्षय । हे शूर असहाय हे इन्द्र वृत्रहा वृत्रस्य हन्ता विद्वान् सर्वं चानानस्त्वं सोमं पिब । पूशण्वते पूषब्दस्य मतुप् । अनो नुडिति नुदागमः । रषाभ्यामिति णत्वम् । चकृम । करोतेश्छान्दसे वर्तमाने लिटि क्रादित्वादिडभावः । निघातः । हरिवते । छन्दसीर इति मतुपो वत्वं ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८