मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५२, ऋक् ८

संहिता

प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं॑ वी॒रत॑माय नृ॒णाम् ।
दि॒वेदि॑वे स॒दृशी॑रिन्द्र॒ तुभ्यं॒ वर्ध॑न्तु त्वा सोम॒पेया॑य धृष्णो ॥

पदपाठः

प्रति॑ । धा॒नाः । भ॒र॒त॒ । तूय॑म् । अ॒स्मै॒ । पु॒रो॒ळाश॑म् । वी॒रऽत॑माय । नृ॒णाम् ।
दि॒वेऽदि॑वे । स॒ऽदृशीः॑ । इ॒न्द्र॒ । तुभ्य॑म् । वर्ध॑न्तु । त्वा॒ । सो॒म॒ऽपेया॑य । धृ॒ष्णो॒ इति॑ ॥

सायणभाष्यम्

यजमानोऽध्वर्य्वादीन्प्रति बृते । हे अध्वर्व्यादयः अस्मा इन्द्राय धानास्तूयं क्षिप्रं प्रति भरत । सम्पादयत । नृणां वीरतमायास्मा इन्द्राय पुरोडाह्सं च सम्पादयत । अथ प्रत्यक्षकृतः । हे धृष्णो शत्रूणामभिभवनशील हे इन्द्र सदृशीरेकविधाः स्तुतयस्तुभ्यं त्वदर्थं दिवे दिवे प्रतिदिवसमस्माभिः क्रियन्ते । ताः स्तुतयः सोमपेयाय सोमपानार्थं त्वां वर्धन्तु । उत्साहेन प्रवृद्धं कुर्वन्तु । सदृशीः । समानान्ययोश्चेति कञ्प्रत्ययः । टिड्ढाणञित्यादिन ङीप दृग्दृशवतुष्विति समानस्य सभावः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८