मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १

संहिता

इन्द्रा॑पर्वता बृह॒ता रथे॑न वा॒मीरिष॒ आ व॑हतं सु॒वीरा॑ः ।
वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे॑थां गी॒र्भिरिळ॑या॒ मद॑न्ता ॥

पदपाठः

इन्द्रा॑पर्वता । बृ॒ह॒ता । रथे॑न । वा॒मीः । इषः॑ । आ । व॒ह॒त॒म् । सु॒ऽवीराः॑ ।
वी॒तम् । ह॒व्यानि॑ । अ॒ध्व॒रेषु॑ । दे॒वा॒ । वर्धे॑थाम् । गीः॒ऽभिः । इळ॑या । मद॑न्ता ॥

सायणभाष्यम्

इन्द्रापर्वता इन्द्रश्च पर्वतश्च । हे इन्द्रापर्वतौ बृहता रथेनागत्य वामीर्वननीयाः सुवीराः शोभनपुत्रोपेता इषोऽन्नान्या वहतम् । अस्मदर्थं धारयतम् । प्रयच्छतमित्यर्थः । किञ्च हे देवौ द्योतमानावध्वरेष्वस्मत्सम्बन्धिषु यज्ञेषु हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि वीतम् । भक्षयतम् । तथेळयास्मभिर्दत्तेन हविषा मदन्ता हृष्यन्तौ युवां गीर्भिः स्तुतिलक्षणाभिरस्मदीयाभिर्वाग्भिर्वर्धेथाम् । समृद्धौ भवतम् । इन्द्रापर्वता । आमन्त्रितस्य पादादित्वात्षाष्ठि कमाद्युदात्तत्वम् । सुवीराः । बहुव्रीहौ वीरवीर्यौ चेत्युत्तरपदाद्युदात्तत्वम् । वीतम् । वीकान्त्यादिष्वित्यस्य लोट्यदादित्वाच्छपो लुक् । प्रत्य्त्यस्वरः । वर्धेथाम् । वृधु वृद्धावित्यस्य लोट्याथामो लसार्वधातुकस्वरे चातुकस्वरः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९