मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् २

संहिता

तिष्ठा॒ सु कं॑ मघव॒न्मा परा॑ गा॒ः सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि ।
पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ॥

पदपाठः

तिष्ठ॑ । सु । क॒म् । म॒घ॒ऽव॒न् । मा । परा॑ । गाः॒ । सोम॑स्य । नु । त्वा॒ । सुऽसु॑तस्य । य॒क्षि॒ ।
पि॒तुः । न । पु॒त्रः । सिच॑म् । आ । र॒भे॒ । ते॒ । इन्द्र॑ । स्वादि॑ष्ठया । गि॒रा । श॒ची॒ऽवः॒ ॥

सायणभाष्यम्

अहर्गणेश्वन्त्यवर्जितेष्वहःसु हारियोजनस्य तिष्ठा सु कमित्यनुवाक्या सूत्रितं च । तिष्ठा सु कं मघवन्मापरा गा अयं यज्ञो देवया आयं मियेधः । आ. ६-११ । इति ॥

हे मघवन्धनवन्निन्द्र कं सुखेनास्मिन्यज्ञे सु तिष्ठ । सुष्ठु किञ्चित्कालमततिष्ठ । मा पारा गाः । अस्मदीयाद्यज्ञान्मा गच्छ । तत्र कारणमाह । सुषुतस्य सुष्ठ्वभिषुतेन सोमस्य सोमेन नु क्षिप्रं त्वां यक्षि । यजे । हे शिचीवः शक्तिमन्निन्द्र ते तव सिचं वस्त्रप्रान्तं स्वादिष्ठया स्वादुतरया स्तुतिलक्षनया तिरा आ रभे । अलभे । गृह्णामीत्यर्थः । तत्र दृष्टान्तः । पितुर्न । यथा पुत्रो मधुरया वाचा पितुर्जनकस्य चेलांचलं गृह्णाति तद्वत् ॥ सु कमिति निपातद्वयम् । प्रथमस्य निपाता आद्युदात्ता इत्याद्युदात्तत्वम् । द्वितीयस्य चादयोऽनुदात्ता इत्यनुदात्तत्वम् । सोमस्य यक्षि । यज देवपूजासङ्गतिकरणदानेषु । स्वरितञित इत्यात्मनेपदम् । तस्य लुङि सिच्येकाच इतीट् प्रतिषेधः । व्रश्चादिना षत्वम् । षधोः कः सीति कत्वम् । सिचः सकारस्य षत्वम् । निघातः । रभे । डुलभष् प्राप्तौ । लुट्युत्तम इटि रूपम् । रलयोरभेदः । निघातः । स्वादिष्ठया । स्वादुशब्दादिष्ठनि रूपम् । नित्त्वादाद्युदात्तः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९