मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् ५

संहिता

परा॑ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा॑ ते॒ अर्थ॑म् ।
यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं॑ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ॥

पदपाठः

परा॑ । या॒हि॒ । म॒घ॒ऽव॒न् । आ । च॒ । या॒हि॒ । इन्द्र॑ । भ्रा॒तः॒ । उ॒भ॒यत्र॑ । ते॒ । अर्थ॑म् ।
यत्र॑ । रथ॑स्य । बृ॒ह॒तः । नि॒ऽधान॑म् । वि॒ऽमोच॑नम् । वा॒जिनः॑ । रास॑भस्य ॥

सायणभाष्यम्

अहर्गणेऽन्त्यवर्जितेष्वहःसु हारियोजनस्य वैकल्पिकी परा याहीत्यनुवाक्या । परा याहि मघवन्नाच याहीति वानुवाक्येति सूत्रितम् । आ. ६-११ ।

हे मघवन्धनवन्निन्द्र त्वं परा याहि । अस्माद्धेवयजनात्पराङ्मुखो गृहं प्रति गच्छ । अथवा देवयजनं प्रत्यायाहि । हे भ्रातः पोषकोभयात्रापि ते तवार्थं अर्यते प्राप्यत इत्यर्थः प्रयोजनम् । अस्ति तत्र जायात्र सोमः । प्रयोजनान्तरमाह । यत्र गृहं प्रति गमने बृहतो महतो रथस्योपरि निधानमवस्थानं प्रयोजनम् । अत्र स्थितौ रासभस्य हेषारवं कुर्वतो वाजिनोऽश्वस्य रथाद्विमोचनं प्रयोजनम् । अर्थम् । ऋ गतौ । उषिकुशिगार्तिभ्यस्थिन्निति थन् । नित्स्वरः । निधानम् । दधातेर्भावे ल्युट् । लितीति प्रत्ययात्पूर्वस्योदात्तत्वम् । रासभस्य । रासृ शब्दे । रासिवल्लिभ्यां च । उ. ३-१२५ । इति कर्तर्यभच् प्रत्ययः । ग्रामादित्वादाद्युदात्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९