मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् ७

संहिता

इ॒मे भो॒जा अङ्गि॑रसो॒ विरू॑पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः ।
वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयु॑ः ॥

पदपाठः

इ॒मे । भो॒जाः । अङ्गि॑रसः । विऽरू॑पाः । दि॒वः । पु॒त्रासः॑ । असु॑रस्य । वी॒राः ।
वि॒श्वामि॑त्राय । दद॑तः । म॒घानि॑ । स॒ह॒स्र॒ऽसा॒वे । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

सायणभाष्यम्

हे इन्द्र इमे यागं कुर्वाणा भोजाः सौदासाः क्षत्रियाः तेषां यजका विरूपा नानारूपा मेधातिथिप्रभृतयोऽङ्गिरसश्च दिवोऽसुरस्य देवेभ्योऽपि बलवतो रुद्रस्य पुत्रासः पुत्रा वीरा बलवन्तो मरुतः ते सर्वे विश्वामित्राय मह्यं सहस्रसावे । सहस्रं सूयतेऽत्रेति सहस्रसावोऽश्वमेधः । तस्मिन्नश्वमेधे मघानिमहनीयानि धनानि ददतः प्रयच्छन्तः सन्त आयुर्जीवनमन्नं वा प्र तिरन्ते । प्रकर्षेण वर्धयन्ति । दिवस्पुत्रास इति संहितायां षष्ठ्याः पतिपुत्रेति विसर्जनीयस्य सत्वम् । ददतः । डुदाञ् दान इत्यस्य शतरि रूपम् । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । तिरन्ते । तरतेर्व्यत्ययेन शः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०