मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् ९

संहिता

म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षा॑ः ।
वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्र॑ः ॥

पदपाठः

म॒हान् । ऋषिः॑ । दे॒व॒ऽजाः । दे॒वऽजू॑तः । अस्त॑भ्नात् । सिन्धु॑म् । अ॒र्ण॒वम् । नृ॒ऽचक्षाः॑ ।
वि॒श्वामि॑त्रः । यत् । अव॑हत् । सु॒ऽदास॑म् । अप्रि॑यायत । कु॒शि॒केभिः॑ । इन्द्रः॑ ॥

सायणभाष्यम्

महान् तपसातिशयितसामर्थ्यवानृषिरतीरिन्द्रियार्थद्रष्टा देवजा द्योतमानां तेजसां जनयिता देवजूतस्तैस्तेजोभिराकृष्टो नृचक्षा नृणां कर्मनेतॄणामध्वर्य्वादीनामुपद्रष्टा स विश्वामित्रोऽर्णवमुदकवन्तं सिन्धुं विपाट् च्छुतुद्र्योः सम्भेदमस्तभ्नात् । निरुद्धवेगमकरोत् । किञ्च स विश्वामित्रः सुदासं पैजवनं राजानं यद्यदाहवत् अयाजयत् तदानीमिन्द्रः कुशिकेभिः कुशिकगोत्रोत्पन्नैरृषिभिः सहाप्रियायत । प्रिय इवाचरत् । अवहत् । वह प्रपण इत्यस्य लङि रूपम् । यद्योगादनिघातः । अप्रियायत । अप्रिय इवाचरतीत्यर्थे कर्तुः क्यङ् सलोपश्चेति क्यङ् । तदन्ताल्लङि रूपम् । पादादित्वाद निघातः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०