मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १०

संहिता

हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद॑न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा॑ ।
दे॒वेभि॑र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ॥

पदपाठः

हं॒साःऽइ॑व । कृ॒णु॒थ॒ । श्लोक॑म् । अद्रि॑ऽभिः । मद॑न्तः । गीः॒ऽभिः । अ॒ध्व॒रे । सु॒ते । सचा॑ ।
दे॒वेभिः॑ । वि॒प्राः॒ । ऋ॒ष॒यः॒ । नृ॒ऽच॒क्ष॒सः॒ । वि । पि॒ब॒ध्व॒म् । कु॒शि॒काः॒ । सो॒म्यम् । मधु॑ ॥

सायणभाष्यम्

हे विप्रा मेधाविनो हे ऋषयोऽतीन्द्रियार्थस्य द्रष्टारो हे नृचक्षसो नृणां कर्मनेतॄणां विशेषेण द्रष्टारो हे कुशिकाः कुशिकगोत्रोत्पन्ना हे पुत्रा अध्वरे यज्ञेऽद्रिभिर्ग्रावभिः सोमेसुतेऽभिषुते सति गीर्भिर्मदन्तः स्तुतिभिर्देवान्मादयन्तो यूयं श्लोकम् । श्लोक्यते शस्यतेऽनेनेति श्लोकः शस्त्रम् । कृणुथ । सम्यगुच्चारयत । तत्र दृष्टान्तः । हंस इव । यथा हंसाः सम्यक् शब्दं कुर्वन्ति तद्वत् । किञ्च देवेभिः सचा यष्टव्यदेवैः सहिता यूयं सोम्यं सोममयं मधु मधुकरं रसं वि पिबध्वम् । परस्परव्यतिहारेण पिबत । श्लोकम् । श्लोकृ शब्दे । करणे घञ् । ञ्त्त्वादाद्युदात्तः । मदन्तः । मदी हर्ष इत्यस्यान्तर्भावितण्यर्थस्य व्यत्ययेन शप् । पिबध्वं पा पाने । कर्तरि कर्मव्यतिहार इत्यात्मनेपदम् । सोम्यं सोमशब्दान्मये चेति यप्रत्ययः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०