मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् ११

संहिता

उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं॑ रा॒ये प्र मु॑ञ्चता सु॒दासः॑ ।
राजा॑ वृ॒त्रं ज॑ङ्घन॒त्प्रागपा॒गुद॒गथा॑ यजाते॒ वर॒ आ पृ॑थि॒व्याः ॥

पदपाठः

उप॑ । प्र । इ॒त॒ । कु॒शि॒काः॒ । चे॒तय॑ध्वम् । अश्व॑म् । रा॒ये । प्र । मु॒ञ्च॒त॒ । सु॒ऽदासः॑ ।
राजा॑ । वृ॒त्रम् । ज॒ङ्घ॒न॒त् । प्राक् । अपा॑क् । उद॑क् । अथ॑ । य॒जा॒ते॒ । वरे॑ । आ । पृ॒थि॒व्याः ॥

सायणभाष्यम्

हे कुशिकाः कुशिकगोत्रोत्पन्न हे पुत्रा उप प्रेत । अश्वस्य समीपे प्रकर्षेण गच्छत । तत्र गत्वा चेतयध्वम् । सावधाना भवत । यद्वा । अश्वरक्षिणः सावधानान् कुरुत । सुदासः पैजवनस्य राज्ञोऽश्वं राये तस्य दिग्विजयेन धनलाभाय प्रमुञ्चत । राजा देवानां स्वामीन्द्रो वृत्रं कर्मविघ्नकारिणमसुरं प्रगपागुदक् पूर्वपश्चिमोत्तरेषु देशेषु सङ्घनत् । भृशं हतवान् । तस्मादश्वं विमुञ्चतेति भावः । अथानन्तरं पृथिव्या वर उत्तमे देवयजनदेशे यजाते । स राजा यजेत । चेत्ययध्वम् । चेती संज्ञान इत्यस्य ण्यन्तस्य लोटि रूपम् । आमन्त्रितस्या विद्यमानवत्त्वेन तिङ उत्तरत्वान्न निघातः । जङ्घनत् । हन हिंसागत्योरित्यस्य यङ् लुकि नुगतोऽनुनासिकान्तस्येत्यभ्यासस्य नुगागमः । तदंताल्लेट्यडागमः । प्राक् । अञ्चतेः क्विनि रूपम् । अनिगन्तोऽञ्चतावप्रत्यय इति गतेः स्वरः । यजाते । यजतेर्लेट्याडागमः । निघातः । वरे । वृञ् वरण इत्यस्मात् ग्रहवृदृनिश्चिगमश्चेत्यप्प्रत्ययः । तस्य पित्त्वदनुदात्तत्वे धातुस्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१