मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १२

संहिता

य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् ।
वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन॑म् ॥

पदपाठः

यः । इ॒मे इति॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒हम् । इन्द्र॑म् । अतु॑स्तवम् ।
वि॒श्वामि॑त्रस्य । र॒क्ष॒ति॒ । ब्रह्म॑ । इ॒दम् । भार॑तम् । जन॑म् ॥

सायणभाष्यम्

हे कुशिकाः कुशिकपुत्रा योऽहं विश्वामित्र उभे इमे रोदसी द्यावापृथिव्याविन्द्रमतुष्टवं स्तावयामि । द्यावापृथिवीभ्यामिन्द्रस्य स्तोत्रं मया कारितमित्यर्थः । यद्वा । उभयो रोदस्योरन्तरवस्थितमिन्द्रं स्त्ॐइ । स्तोत्रं कुर्वाणस्य विश्वामित्रस्य ममेदमिन्द्रविषयं ब्रह्मस्तोत्रं भारतं भरतकुलं जनं रक्षति । पालयति । अतुष्टवम् । ष्टुञ् स्तुतौ । ण्यन्तस्य लुङि चङि रूपम् । यद्वृत्तयोगादनिघातः । भारतम् । भरतशब्द उत्सादिः । ञित्त्वादाद्युदात्तः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१