वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।
कर॒दिन्न॑ः सु॒राध॑सः ॥
वि॒श्वामि॑त्राः । अ॒रा॒स॒त॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।
कर॑त् । इत् । नः॒ । सु॒ऽराध॑सः ॥
विश्वामित्रा वजिणे वज्रहस्तायेन्द्राय ब्रह्म स्तोत्रमरासत । अकुर्वन् । स्तुतः स इन्द्रो नोऽस्मान् सुराधसः शोभनधनोपेतान् करदित् । अकरोत्वेव ॥ अरासत । रासृ शब्द इत्यस्य लङि बहुलं छन्दसीति शओप् लुक् । निघातः । करत् । करोतेर्लुङि च्लेः कृमृदृरुहिभ्यश्छन्दसीत्यङादेशः । सुराधसः । आद्युदात्तद्व्यंच्छन्दसीत्युत्तरपदाद्युदात्तत्वं ॥ १३ ॥