मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १४

संहिता

किं ते॑ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं॑ दु॒ह्रे न त॑पन्ति घ॒र्मम् ।
आ नो॑ भर॒ प्रम॑गन्दस्य॒ वेदो॑ नैचाशा॒खं म॑घवन्रन्धया नः ॥

पदपाठः

किम् । ते॒ । कृ॒ण्व॒न्ति॒ । कीक॑टेषु । गावः॑ । न । आ॒ऽशिर॑म् । दु॒ह्रे । न । त॒प॒न्ति॒ । घ॒र्मम् ।
आ । नः॒ । भ॒र॒ । प्रऽम॑गन्दस्य । वेदः॑ । नै॒चा॒ऽशा॒खम् । म॒घ॒ऽव॒न् । र॒न्ध॒य॒ । नः॒ ॥

सायणभाष्यम्

हे इन्द्र कीकटेश्वनार्यनिवासेषु जनपदेषु । यद्वा क्रियाभिर्यागदानहोमलक्षणाभिः किं फलिष्यतीत्यश्रद्दधानाः प्रत्युत पिबत खादतायमेव लोको न पर इति वदन्तो नास्तिका कीकटाः । तेषु गावस्ते तव किं कृण्वन्ति । किं कुर्वन्ती । न क्वचित्तवोपयोगं कुर्वन्तीत्यर्थः । अनुपयोगं दर्शयति आशिरं सोममिश्रणयोग्यं पयो न दुह्रे । न दुहन्ति । किञ्च घर्मं प्रवर्ग्याख्यकर्मोपयुक्तं महावीरपात्रं स्वपयः प्रदानद्वारेण न तपन्ति । न दीपयन्ति । एतेन सांनाय्याद्यर्थमपि नोपयुज्यन्त इत्यपि सूचितं भवति । एवं क्वचिदसि वैदिके कर्मण्यनुपयुक्तास्ता गा नोऽस्मभ्यमा भर । आहर । न केवलं ता एवं किं तर्हि प्रमगंदस । द्वैगुण्यादिलक्षणपरिमाणं गतोऽर्थो मामेव गमिष्यतिति बुद्ध्यापरेषां ददातिति मगन्दो वार्धुषिक । तस्यापत्यं पुत्रादिः प्रमगन्द प्रस्कण्वादिवदपत्यार्थ प्रशब्देन द्योत्यते । तस्यात्यन्तकुसीदि कुलस्य वेदो धनमाहर । किञ्च हे मघवन्धनवन्निन्द्र नैचाशाखम् । नीचासु शुद्रयोनिषूत्रादिता शाखा पुत्रपौत्रादिपरंपरायेन स नीचाशाखः । शूद्रापत्यैश्च केवलैः शूद्रवेदी पतत्यध इति च पातकहेतुत्वेन स्मरणात् । पतितस्य संबन्धि धनं नैचाशाख । तद्धनं नोऽस्मभ्यं रुधय साधय । एतेषां तद्धनं तव नोपयुज्यते अस्मदायत्तं तु तद्धनं यागादिद्वारा तवोपयुज्यते । तस्मात्तदस्मभ्यं प्रयच्छेति भावः । एतमर्थं यास्कोऽप्याह । किं ते कुर्वन्ति कीकटेषु गावः । किखटो नाम देशोऽनार्यनिवासः । कीकटाः किंकृताः किं क्रियाभिरितिप्रेप्सा वा । नैव चाशिरं दुह्रे न तपन्ति घर्मं घरणम् । आ हर नः प्रमगन्दस्य धनानि । मगन्दः कुसीदी माङ्गदो मामागमिष्यतीति च ददाति । तदपत्यं प्रमगन्दोऽत्यन्तकुसीदिकुलीनः । प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुः । पण्डकः पण्डगः प्रार्दको वा प्रार्दयत्याण्डौ । आण्डावाणी इव व्रीडयति । तत्स्थं नैचाशाखम् । नीचाशाखो नीचैः शाखः । शाखाः शक्नोतेः । आणिररणात् । तन्नो मघवन्रन्धयेति रध्यतिर्वशगमने । नि. ६.३२ । इति । आशिरम् । आङ् पूर्वाच्छ्रीणातेः क्विप्य्त्पस्पृधेथामित्यादिना शिरित्यादेशः । दुह्रे । दुहेर्लिटीयो र इति रे आदेशः । द्विर्वचनस्यविकल्पितत्वात् द्विर्वचनाभावः । चादिलोपे विभाशेति न निघातः । नैचाशाखम् । तस्येदमित्यण् । प्रत्ययस्वरः । रन्धय । रधेर्ण्यन्तस्य रधिजभोरचीति नुमागमः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१