मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १५

संहिता

स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता ।
आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो॑ दे॒वेष्व॒मृत॑मजु॒र्यम् ॥

पदपाठः

स॒स॒र्प॒रीः । अम॑तिम् । बाध॑माना । बृ॒हत् । मि॒मा॒य॒ । ज॒मद॑ग्निऽदत्ता ।
आ । सूर्य॑स्य । दु॒हि॒ता । त॒ता॒न॒ । श्रवः॑ । दे॒वेषु॑ । अ॒मृत॑म् । अ॒जु॒र्यम् ॥

सायणभाष्यम्

ससर्परीद्वृचे प्राहुरितिहासं पुराविदः । सौदासनृपयज्ञे वै वसिष्ठात्मजशक्तिना । विश्वामित्रस्याभिभूतं बलं वाक् च समन्ततः । वासिष्ठेनाभिभूतः स ह्यवासीदथ गाधिजः । तस्मै ब्राह्मीं तु सौरीं वा नाम्ना वाचं ससर्परीम् । सूर्यवेश्मन आहृत्य दुदुर्वै जमदग्नयः । कुशिकानां मतिः सा वागमतिं तामपानुदत् ॥

जमदग्निदत्ता जमदग्निभिः प्रज्वलिताग्निभिरृषिभिरस्मभ्यं दत्तामतिमज्ञानं बाधमाना ससर्परीः सर्वत्र शब्दरूअतया सर्पणशीला वाक् बृहत्प्रभुतं यथा भवति तथा मिमाय । नभसि शब्दं करोति । सैषा सूर्यस्य दुहिता वाग्देवता देवेष्विन्द्रादिष्वजुर्यं क्षयरहितममृतममृतलक्षनं श्रवोऽन्नमा ततान । समन्तात्स्वाहाकारवाचं तनोति । जमदग्निदत्ता । दाण् दान इत्यस्यनिष्ठायां दो दद्घोरिति ददादेशः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरः । अजुर्युम् । जॄ वयोहानौ । ऋहलोर्ण्यत् । बहुलं छन्दसीत्युत्वम् । नञ् सुभ्यामित्यन्तोदात्तत्वं ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१