मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १८

संहिता

बलं॑ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः ।
बलं॑ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ॥

पदपाठः

बल॑म् । धे॒हि॒ । त॒नूषु॑ । नः॒ । बल॑म् । इ॒न्द्र॒ । अ॒न॒ळुत्ऽसु॑ । नः॒ ।
बल॑म् । तो॒काय॑ । तन॑याय । जी॒वसे॑ । त्वम् । हि । ब॒ल॒ऽदाः । असि॑ ॥

सायणभाष्यम्

हे इन्द्र नोऽस्माकं तनूषु शरीरेषु बलं धेहि । नोऽस्मत्सम्बन्धिरथवाहेष्वनळुत्सु बलं धेहि । तोकाय पुत्राय तनयाय पौत्राय च जीवसे चिरं जीवनाय बलमायुर्विधेहि । एतादृशं दातृत्वं कुत इत्यत आह । त्वं बलदाः । बलं ददातीति बलदाः । असि हि । सर्वेशु लोकेषु प्रसिद्धोऽसि खलु । अनळुत्सु । वहप्रापणे । अनसि वहेः क्विबनसो डश्चेति क्विप् । अनसः सकारस्य डत्वम् । वहेर्यजादित्वात्संप्रसारणम् । वसुस्रंसुध्वंस्वनशुहां द इति हकारस्य दत्वम् । कृदुत्तरस्वरः । आसि । हियोगादनिघातः । सिपः पित्त्वादनुदात्तत्वे धातुस्वरः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२