मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् १९

संहिता

अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो॑ धेहि स्पन्द॒ने शिं॒शपा॑याम् ।
अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा॑द॒स्मादव॑ जीहिपो नः ॥

पदपाठः

अ॒भि । व्य॒य॒स्व॒ । ख॒दि॒रस्य॑ । सार॑म् । ओजः॑ । धे॒हि॒ । स्प॒न्द॒ने । शिं॒शपा॑याम् ।
अक्ष॑ । वी॒ळो॒ इति॑ । वी॒ळि॒त॒ । वी॒ळय॑स्व । मा । यामा॑त् । अ॒स्मात् । अव॑ । जी॒हि॒पः॒ । नः॒ ॥

सायणभाष्यम्

हे इन्द्र खदिरस्य सारम् । सारेण हि आणिः क्रियते । तं खदिरस्य सारभूतमाणिमभिव्ययस्व । अभितस्तत्तत्स्थानेषु दार्ढ्यार्थं निधेहि । स्पन्दने रथस्य गमने सति शिन्तपायां शिंशपाख्यदादुनिर्मिते रथस्य पलक ओजो धेहि । दार्ध्यं कुरु । हे ... दृढ वीळितास्माभिर्दृढीकृत हे आक्ष वीळयस्व । त्वं दृढो भव । यद्वास्मान् दृढी कुरु । यामाद्गच्छतोऽस्माद्रथान्नोऽस्मान् माव जीहिपः । मा पीपतः । .. दिरस्य । अजिरशिशिरेत्यादिना किरच् प्रत्ययान्तत्वेन निपातनादन्तोदात्तः । वीळित । वीळयतेर्ण्यन्तस्य निष्ठायामिडागमः । निष्ठायां सेटि । पा. ६-४-५२ । इति णेर्लुक् । वीळयस्व । आमन्त्रितस्याविद्यमानत्वेन पादादित्वादनिघातः । यामात् । या प्रापण इत्यस्मादर्तिस्तुसुहुसृ इत्यादिना मन्प्रत्ययः । नित्त्वादाद्युदात्तः । जीहिपः । ओहाक् त्यागे । ण्यन्तस्य लुङि चङि रूपम् । अकारस्येकारश्छान्दसः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२