मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् २३

संहिता

न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः ।
नावा॑जिनं वा॒जिना॑ हासयन्ति॒ न ग॑र्द॒भं पु॒रो अश्वा॑न्नयन्ति ॥

पदपाठः

न । साय॑कस्य । चि॒कि॒ते॒ । ज॒ना॒सः॒ । लो॒धम् । न॒य॒न्ति॒ । पशु॑ । मन्य॑मानाः ।
न । अवा॑जिनम् । वा॒जिना॑ । हा॒स॒य॒न्ति॒ । न । ग॒र्द॒भम् । पु॒रः । अश्वा॑त् । न॒य॒न्ति॒ ॥

सायणभाष्यम्

पुरा खलु तपसः क्षयो मा प्रापदिति शापन्निवृत्तं मौनिनं विश्वामित्रं वसिष्थपुरुषा बद्ध्वानीतवन्तः । तान्प्रति विश्वामित्रो ब्रूते । हे जनासो जनाः सायकस्यावसानकारिणो विश्वामित्रस्य मन्त्रगनसामर्थ्यं न चिकिते । भविद्भिर्न ज्ञायते । अत एवं लिधं लुब्धं तपसः क्षयो मा भूदिति लोभेन तूष्णीं स्थितमृषिं पशु मन्यमानाः । पशु इति निपातः पशुशब्दसमानार्थः । पशुवन्मन्यमाना एते नयन्ति । बद्ध्वा स्वकीयं देशं प्रापयन्ति । एवं स्वसामर्थ्यं प्रदर्श्य विसदृशो वसिष्ठो मया सह स्पर्धितुं नार्हतिति धिक्करोति । नावाजिनमिति । अवाजिनम् । वाचामिनो वाजिनः सर्वज्ञः । तद्विलक्षणं मूर्खजनं वाजिना वागीशान हासयन्ति हास्यास्पदं न कुर्वन्ति । तेन सह नस्पर्धन्त इत्यर्थः । तथा गर्दभं रासभमश्वात्पुरः पुरुस्तान्ननयन्ति । एवमेव विसदृशो वसिष्ठो न मया स्पर्धितुमीश्ट इत्यर्थः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३