मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५३, ऋक् २४

संहिता

इ॒म इ॑न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् ।
हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या॑वाजं॒ परि॑ णयन्त्या॒जौ ॥

पदपाठः

इ॒मे । इ॒न्द्र॒ । भ॒र॒तस्य॑ । पु॒त्राः । अ॒प॒ऽपि॒त्वम् । चि॒कि॒तुः॒ । न । प्र॒ऽपि॒त्वम् ।
हि॒न्वन्ति॑ । अश्व॑म् । अर॑णम् । न । नित्य॑म् । ज्या॒ऽवाज॑म् । परि॑ । न॒य॒न्ति॒ । आ॒जौ ॥

सायणभाष्यम्

हे इन्द्र भरतस्य पुत्रा भरतवंश्या इमे विश्वामित्रा अपतित्वमपगमनं वसिष्ठेभ्यश्चिकितुः । जानन्ति । प्रपित्वं प्रगमनं न जानन्ति । शिष्थैः सह तेषां सङ्गतिर्नास्ति । ब्राह्मणा एव त इत्यर्थः । अपि चा जौ सङ्ग्रामे नित्यं सहजमरणं नारिमिव वसिष्थान्प्रत्यशं हिन्वन्ति । प्रेरयन्ति । ततश्च ज्यावाजं बलं धनुः परि णयन्ति । वसिष्थान्हन्तुं शरसन्धानेन चरन्ति ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३