मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् २

संहिता

महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो॑ म इ॒च्छञ्च॑रति प्रजा॒नन् ।
ययो॑र्ह॒ स्तोमे॑ वि॒दथे॑षु दे॒वाः स॑प॒र्यवो॑ मा॒दय॑न्ते॒ सचा॒योः ॥

पदपाठः

महि॑ । म॒हे । दि॒वे । अ॒र्च॒ । पृ॒थि॒व्यै । कामः॑ । मे॒ । इ॒च्छन् । च॒र॒ति॒ । प्र॒ऽजा॒नन् ।
ययोः॑ । ह॒ । स्तोमे॑ । वि॒दथे॑षु । दे॒वाः । स॒प॒र्यवः॑ । मा॒दय॑न्ते । सचा॑ । आ॒योः ॥

सायणभाष्यम्

हे स्तोतर्महे महत्यै दिवे द्युलोकदेवतायै महत्यै पृथिव्यै च महि महत् त्वं प्रजानन् स्तोत्रमर्च । कुरु । मे मम कामो मनोरथः सर्वान् भोगानिच्छन् चरति । सर्वत्र वर्तते । आयोर्मनुष्यस्य विदथेषु यज्ञेषु ययोर्द्यावापृथिव्योः स्तोमे स्तोत्रे सपर्यवः पूजाकामा देवाः स्तोतारो वा सचा मादयन्ते ह सह माद्यन्ति खलु ॥ पृथिव्यै । उदात्तयण इति विभक्तेरुदात्तत्वम् । सपर्यवः । सपर्यामिच्छतीत्यर्थे सुपः क्यच् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४