मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ५

संहिता

को अ॒द्धा वे॑द॒ क इ॒ह प्र वो॑चद्दे॒वाँ अच्छा॑ प॒थ्या॒३॒॑ का समे॑ति ।
ददृ॑श्र एषामव॒मा सदां॑सि॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥

पदपाठः

कः । अ॒द्धा । वे॒द॒ । कः । इ॒ह । प्र । वो॒च॒त् । दे॒वान् । अच्छ॑ । प॒थ्या॑ । का । सम् । ए॒ति॒ ।
ददृ॑श्रे । ए॒षा॒म् । अ॒व॒मा । सदां॑सि । परे॑षु । या । गुह्ये॑षु । व्र॒तेषु॑ ॥

सायणभाष्यम्

को वाद्धा सत्यभूतं तादृशमर्थं वेद । वेत्ति । को वेहास्मिन्प्रज्ञातमर्थं प्र वोचत् । प्र ब्रविति । किं तत्तदुच्यते । देवानच्छाभिलक्ष्य का पथ्या पथि साधु समीचीनः को वा मर्गः समेति । सम्यक् प्राप्नोतिति । इममर्थं न कश्चिज्जानाति । न कोऽपि ब्रविति । किन्ते देवा विद्यन्ते । वाढमित्याह । एषां दिवि स्थितानां नक्षत्ररूपाणां देवानामवमाधोमुखानि सदांसि स्थानानि ददृश्रे । दृश्यन्ते । तथापि परेषूत्तमेशु गुह्येशु दुर्ज्ञानेषु व्रतेषु कर्मस्वनुष्ठितेषु या यानि दिवि देवस्थानानि लभ्यन्ते तत्रागन्तुं को मार्ग इति वेदमन्त्ररेन न कश्चिज्जानातीत्यभिप्रायः ॥ अद्धा । स्वरादिषन्तोदात्तत्वेन पठितत्वादन्तोदात्तः । वोचत् । ब्रूञ् व्यक्तायां चाचि लुङि ब्रुवो वचिरिति वच्यादेशः । अस्यतिवक्तिख्यातिभ्य इति च्लेरङादेशः । वच उमित्युमागमः । निघातः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४