मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ६

संहिता

क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती ।
नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ॥

पदपाठः

क॒विः । नृ॒ऽचक्षाः॑ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य॑ । योना॑ । विघृ॑ते॒ इति॒ विऽघृ॑ते । मद॑न्ती॒ इति॑ ।
नाना॑ । च॒क्रा॒ते॒ इति॑ । सद॑नम् । यथा॑ । वेः । स॒मा॒नेन॑ । क्रतु॑ना । सं॒वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने ॥

सायणभाष्यम्

कविः क्रान्तदर्शी नृचक्षा नृणां द्रष्टा सूर्वः सीमेते द्यापृथिवावभ्यचष्ट । अर्वतः पश्यति । ऋतस्य योना जलस्य स्थानेऽन्तरिक्षे मदन्ती हृष्यन्त्यौ विघृते । घृतमस्या ओषधयो जलमम्य्ष्या इति । एवं विधरसोपेते समानेन । समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नय इति परस्परप्रीणनाख्येनैकेन क्रतुना कर्मणा संविदाने परस्परमैकमत्यं प्राप्ते ते द्यावापृथ्व्यौ नाना पृथग्भुतं सदनं स्थानं चक्राते । तथा च श्रुतिः । इमौ वै लोकौ सहास्तां तौ व्यैतामिति । तत्र दृष्टान्तः । यथा वेः कुलायं नाना भवति तद्वत् ॥ अचष्ट । चक्षिङ् व्यक्तायां वाचीत्यस्य लङि स्कोः संयोगाद्योरिति ककारलोपः । निघातः । संविदाने । विद ज्ञान इत्यस्य समो गमीत्यादिनात्मनेपदे शानच् । चित्त्वादन्तोदात्तः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५