मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ८

संहिता

विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते ।
एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ॥

पदपाठः

विश्वा॑ । इत् । ए॒ते इति॑ । जनि॑म । सम् । वि॒वि॒क्तः॒ । म॒हः । दे॒वान् । बिभ्र॑ती॒ इति॑ । न । व्य॒थे॒ते॒ इति॑ ।
एज॑त् । ध्रु॒वम् । प॒त्य॒ते॒ । विश्व॑म् । एक॑म् । चर॑त् । प॒त॒त्रि । विषु॑णम् । वि । जा॒तम् ॥

सायणभाष्यम्

एते द्यावापृथिव्यौ विश्वेज्जनिम सर्वाण्यपि भूतजातानि सं विविक्तः । अवकाशप्रदानेन संविभज्य कुरुतः । किञ्च महो महतो देवानिन्द्र सूर्यादीन् सरित्समुद्रपर्वतादींश्च बिभ्रती बिभ्राणे अपि न व्यथेते । न खिद्येते । किञ्चएजज्जंगमात्मकं ध्रुवं स्थावरात्मकं च विश्वं जगदेकं स्थानं पृथिवीमेव पत्यते । अभिगच्छति । तथा चरच्चञ्चलं पशुजातं पतत्रि पक्षिजातं च विषुणं विष्वक् नानारूपमनयोर्मध्ये वितिष्ठते । योग्यक्रियाध्याहारः । विविक्तः । विचिर् पृथग्भावे । जुहोत्यादिः । निघातः । बिभ्रती । डुभृञ् धारणपोषणयोरित्यस्य शतरि नाभ्यस्ताच्छतुरिति नुमभावः । अभ्यस्तस्वरः । एजत् । एजृ कम्पने । शतरि रूपम् । पत्यते । पद गतौ । दिवादिरात्मनेपदी । दकारस्य तकारो व्यत्ययेन । निघातः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५