मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १०

संहिता

इ॒मं स्तोमं॑ रोदसी॒ प्र ब्र॑वीम्यृदू॒दरा॑ः शृणवन्नग्निजि॒ह्वाः ।
मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा॑न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ॥

पदपाठः

इ॒मम् । स्तोम॑म् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । ऋ॒दू॒दराः॑ । शृ॒ण॒व॒न् । अ॒ग्नि॒ऽजि॒ह्वाः ।
मि॒त्रः । स॒म्ऽराजः॑ । वरु॑णः । युवा॑नः । आ॒दि॒त्यासः॑ । क॒वयः॑ । प॒प्र॒था॒नाः ॥

सायणभाष्यम्

हे रोदसी च्यावापृथिव्याविमं युष्मदीयं स्तोमं प्रब्रवीमि । प्रकर्षेण वदामि । ऋदूदराः । ऋदु मृदु उदरं येषां ते ऋदूदराः । यद्वा । मृदुरुदरे सोमो येषां ते ऋदूदराः । अग्निजिह्वाः । अग्निर्जिह्वास्थानीयो येषां ते तथोक्ताः । सम्राजः सम्यग्दीप्यमाना युवानो नित्यतरुणाः । यद्वा । यजमानानभिमतफलैर्मिश्रीकुर्वन्तः । कवयः क्रान्तदर्शिनः पप्रथानाः स्वानि स्वानि कर्माणि प्रथयन्तो मित्रादयो देवाः शृणवन् । तदिदं स्तोत्रं शृण्वन्तु । शृणवन् । श्रुश्रवण इत्यस्य लेट्यडागमः । अग्निजिह्वाः । त्रिचक्रादित्वादन्तोदात्तत्वम् । पप्रथानाः । प्रथ प्रख्यान इत्यस्य कानचि रूपम् । चित्त्वादन्तोदात्तः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५