मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् ११

संहिता

हिर॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः ।
दे॒वेषु॑ च सवित॒ः श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम् ॥

पदपाठः

हिर॑ण्यऽपाणिः॑ । स॒वि॒ता । सु॒ऽजि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानः ।
दे॒वेषु॑ । च॒ । स॒वि॒त॒रिति॑ । श्लोक॑म् । अश्रेः॑ । आत् । अ॒स्मभ्य॑म् । आ । सु॒व॒ । स॒र्वऽता॑तिम् ॥

सायणभाष्यम्

हिरण्यपाणिः । दानार्थं हिरण्यं पाणौ हस्ते यस्य स तथोक्तः । यद्वा देवकर्तृकयागे सवितुरृत्वग्भूतस्य हस्ते प्राशित्रं भक्षणार्थमद्वर्यवो ददुः । तत्प्राशित्रं तस्य हस्तौ चिच्छेद । ततोऽध्वर्यवो हिरण्मयौ हस्तौ कृत्वा सन्दधुः । ततोऽयं हिरण्यपाणिः । तथा च कौषीतकम् । सवित्रे प्राशित्रं प्रतिजह्रुस्त्तत्तस्य पाणी प्रचिच्छेद तस्मै हिरण्मयौ प्रतिदधुस्तस्माद्धिरण्यपाणिरिति । सुजिह्वः । शोभनवाक् सविता विदथे यज्ञे त्रिस्त्रिषु सवनेषु दिवो नभसः सकाशादा पत्यमान आगच्छन् भवतीति शेषः । परोऽर्धर्चः प्रत्यक्षः । हे सवितस्त्वं देवेषु स्तोतृषु विद्यमानं च श्लोकम् । श्लोक्यतेऽनेनेति श्लोकः स्तोत्रम् । तदश्रेः । प्राप्नुहि च । अदनन्दरं सर्वतातिं सर्वमपेक्शितं फलमस्मभ्यमा सुव । प्रेरय । हिरण्यपाणिः । हिरण्यशब्दं यास्को बहुधा निर्वक्ति । हिरण्यं कस्माद्ध्रियत आयम्यमानमिति वा ह्रियते जनाज्जनमित्यादिना । नि.२-१० । पाणिशब्दं च निर्विवेच । पाणिः पणायतेः पूजाकर्मणः । नि.२-२६ । इति हर्य कान्तिगत्योः । हर्यतेः कन्यन् हिर चेति कन्यन् हिर इत्ययमादेशो धातोः । नित्त्वादाद्युदात्तः । बहुव्रीहौ पूर्वपदस्वरः पत्यमानः । पद गतौ । दिवादिरात्मने पदी । दकारस्य तकारश्छान्दसः । अश्रेः । श्रिञ् सेवायामित्यस्य लङि बहुलं छन्दसीति शपो लुक् । चवायोगे प्रथमेति न निघातः सुव । षू प्रेरणे । तुदादिः । सर्वतातिम् । सर्वदेवात्तातिल् स्वार्थिकः । लित्स्वरः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६