मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १२

संहिता

सु॒कृत्सु॑पा॒णिः स्ववाँ॑ ऋ॒तावा॑ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् ।
पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा॑वाणो अध्व॒रम॑तष्ट ॥

पदपाठः

सु॒ऽकृत् । सु॒ऽपा॒णिः । स्वऽवा॑न् । ऋ॒तऽवा॑ । दे॒वः । त्वष्टा॑ । अव॑से । तानि॑ । नः॒ । धा॒त् ।
पू॒ष॒ण्ऽवन्तः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । ऊ॒र्ध्वऽग्रा॑वाणः । अ॒ध्व॒रम् । अ॒त॒ष्ट॒ ॥

सायणभाष्यम्

सकृत्सुष्ठु जगतः कर्ता सुपाणिः कल्याणपाणिः स्ववान् धनवानृतावा सत्य सङ्कल्पस्त्वष्टा देवस्तानि यान्यस्माकमपेक्शितान्यवसे रक्षणाय नोऽस्मभ्यं धात् । ददातु । ऋभवः । उरु भान्तीत्यृभवः । हे ऋभवः पूशण्वन्तः पूश्णा सहित यूयं मादयध्वम् । अस्मान् धनप्रदानेन हृष्टान् कुरुत । ऊर्ध्वग्रावाणः सोमाभिषवार्थमुद्यतग्रावानः सन्त ऋत्विज इममस्मदीयमध्वरमतष्ट । अकुर्वन् । अतष्ट । तक्षू त्वक्षू तनूकरणे । ऊदित्त्वादत्रेडभावः । झलो झलीति सिलोपः । स्कोः संयोगाद्योरिति ककारलोपः । बहुवचनस्यैकवचनं छान्दसं ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६