मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १३

संहिता

वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो॑ दि॒वो मर्या॑ ऋ॒तजा॑ता अ॒यासः॑ ।
सर॑स्वती शृणवन्य॒ज्ञिया॑सो॒ धाता॑ र॒यिं स॒हवी॑रं तुरासः ॥

पदपाठः

वि॒द्युत्ऽर॑थाः । म॒रुतः॑ । ऋ॒ष्टि॒ऽमन्तः॑ । दि॒वः । मर्याः॑ । ऋ॒तऽजा॑ताः । अ॒यासः॑ ।
सर॑स्वती । शृ॒ण॒व॒न् । य॒ज्ञिया॑सः । धात॑ । र॒यिम् । स॒हऽवी॑रम् । तु॒रा॒सः॒ ॥

सायणभाष्यम्

मिद्युद्रथा विद्योतमानरथोपेता ऋष्तिमन्तो दीप्तिमन्तः । ऋष्टिरायुधविशेषः । तद्वन्तो वा दिवो द्योतमाना मर्याः शत्रूणां मारयितार ऋतजाता उदकाद्यज्ञाद्वा प्रादुर्भूताः । यद्वा । ऋतमुदकं जातं येभ्यस्ते ऋतजाताः । आयासः सततगमनशीला यज्ञियासो यज्ञार्हा मरुतः सरस्वती । गद्यपद्यरूपेण प्रसरणमस्या अस्तीति सरस्वती । वाग्देवता च । एते सर्वे देवा मदीयमिमं स्तोमं शृणवन् । शृण्वन्तु । तुरासोऽस्माकं फलप्रदाने त्वरणयुक्ता हे मरुतः । सहवीरं पुत्रसहितं रयिं धनं धात । अस्मभ्यं धत्त । धात । दधातेर्लोटि बहुलं छन्दसीति शपोलुक् । तप्तनप्तनथानश्चेति तबादेशः पादादित्वादनिघातः । तपः । पित्त्वादनुदात्तत्वे धातुस्वरः । तुरासः । तुर त्वरणे । इगुपधलक्षणः कः । आमन्त्रितत्वान्निघातः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६