मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १५

संहिता

इन्द्रो॒ विश्वै॑र्वी॒र्यै॒३॒॑ः पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ।
पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे॑णः सं॒गृभ्या॑ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ॥

पदपाठः

इन्द्रः॑ । विश्वैः॑ । वी॒र्यैः॑ । पत्य॑मानः । उ॒भे इति॑ । आ । प॒प्रौ॒ । रोद॑सी॒ इति॑ । म॒हि॒ऽत्वा ।
पु॒र॒म्ऽद॒रः । वृ॒त्र॒ऽहा । धृ॒ष्णुऽसे॑णः । स॒म्ऽगृभ्य॑ । नः॒ । आ । भ॒र॒ । भूरि॑ । प॒श्वः ॥

सायणभाष्यम्

विश्वै सर्वैर्विरैः सामर्थ्यैः पत्यमानः प्राप्यमाणः स इन्द्र उभे रोदसी द्यावापृथिव्यौ महित्वा स्वकीयेन महिम्ना पप्रौ । पूरयामास । शेषः प्रत्यक्षकृतः । पुरन्दरः शत्रुपुरां दारयिता वृत्रहा वृत्रस्य हन्ता धृष्णुषेणः प्राभिभवनशीलसेनोपेतः अत्वं पश्वः पशून् संगृभ्य संगृह्य नोऽस्मभ्यं भूरि प्रभूतं यथा भवति तथा भर । देहि । यद्वा । पश्वः पशोर्भूरि बहुत्वं बहून् पशूंश्च यच्छेति । पुरन्दरः । दॄ विदारण इत्यस्य पुरशब्द उपपदे पूः सर्वयोर्दारिसहोरिति खच् प्रत्ययः । वाचंयमपुरन्दरौ चेति निपातनात्पुर्वपदस्यामागमः । चित्त्वादन्तोदात्तः । धृष्णुषेणः । पुर्वपदादिति संहितायां षत्वम् । यदा षत्वं तदा रषाभ्यामिति णत्वम् । संगृभ्य । ग्रहेर्ल्यपि स्थानिवद्भावात्संप्रसारनम् । हृग्रहोर्भश्छन्दसीति भत्वम् । लितीति प्रत्ययत्पूर्वस्योदात्तत्वम् । पश्वः । पशुशब्दात् शसः जसादिषु छन्दसि वावचनमिति सवर्णदीर्घाभावः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६