मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १६

संहिता

नास॑त्या मे पि॒तरा॑ बन्धु॒पृच्छा॑ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ ।
यु॒वं हि स्थो र॑यि॒दौ नो॑ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ॥

पदपाठः

नास॑त्या । मे॒ । पि॒तरा॑ । ब॒न्धु॒ऽपृच्छा॑ । स॒ऽजा॒त्य॑म् । अ॒श्विनोः॑ । चारु॑ । नाम॑ ।
यु॒वम् । हि । स्थः । र॒यि॒ऽदौ । नः॒ । र॒यी॒णाम् । दा॒त्रम् । र॒क्षे॒थे॒ इति॑ । अक॑वैः । अद॑ब्धा ॥

सायणभाष्यम्

हे नासत्यावश्विनौ बन्धुपृच्छा । हविष्प्रदातृत्वेन बन्धूनस्मानपेक्षितमर्थं पृच्छत इति बन्धूनां प्रष्टारौ । युवां मे पितरौ पालयितारौ भवतम् । युवयोरश्विनोः सजात्यं सजाते भवं सङ्गतं चारु नाम कमनीयं खलु । हे आश्विनौ युवं युवां नोऽस्मभ्यं रयीणां धनानां मध्ये रयिदावुत्तमस्य धनस्य दातारौ स्थो हि । भवथः खलु । किञ्च अदब्धा केनाप्यतिरस्कृतौ युवां दात्रं हविषां दातारं मामकवैर्कुत्सितैः शोभनैः कर्मभी रक्षेथे । पालयतम् । नानत्या । नभ्राण्नपादित्यादिना निपातनान्नञः प्रकृतिभावः । बन्धुपृच्छा । पृच्छेः क्विप् । सुपां सुलुगिति सुपो डादेशः । सजात्यम् । सजाते भवम् । भवे छन्दसीति यत् । तित्स्वरितः । स्थः । आस्तेर्लटि रूपम् । हियोगादनिघातः ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७