मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १७

संहिता

म॒हत्तद्व॑ः कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे॑ ।
सख॑ ऋ॒भुभि॑ः पुरुहूत प्रि॒येभि॑रि॒मां धियं॑ सा॒तये॑ तक्षता नः ॥

पदपाठः

म॒हत् । तत् । वः॒ । क॒व॒यः॒ । चारु॑ । नाम॑ । यत् । ह॒ । दे॒वाः॒ । भव॑थ । विश्वे॑ । इन्द्रे॑ ।
सखा॑ । ऋ॒भुऽभिः॑ । पु॒रु॒ऽहू॒त॒ । प्रि॒येभिः॑ । इ॒माम् । धिय॑म् । सा॒तये॑ । त॒क्ष॒त॒ । नः॒ ॥

सायणभाष्यम्

हे कवयो मेधाविनो हे देवा वो युष्माकं तत्तादृशं महत्प्रभूतं नाम कर्म नमनं वा चारु मनोहरं खलु । यद्येन कर्मणा विश्वे सर्वे यूयमिन्द्र इन्द्रोपलक्शिते लोके देवा भवथ ह देवत्वं प्राप्नुथ खलु । हे पुरुहूत बहुभिराहूत हे इन्द्र त्वं प्रियेभिः प्रियतमैऋभिभिः । ऋतेन भवन्त्यृतेन भान्तीति वा । ऋभभिर्देवैः सखासि । इन्द्रसहिता ऋभवो यूयमिमामस्मदीयां धियं स्तुतिं नोऽस्माकं सातये धनादिलाभार्थं तक्शत । स्वीकुरुत । यत् । सुपां सुलुगित्यादिना सुपो लुक् । भवथ । भवतेर्लटि रूपम् । यद्वृत्तयोगादनिघातः । सख ऋभुभिरित्यस्य संहितायामृत्यक इति प्रकृतिभावो ह्रस्वत्वं च ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७