मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् १९

संहिता

दे॒वानां॑ दू॒तः पु॑रु॒ध प्रसू॒तोऽना॑गान्नो वोचतु स॒र्वता॑ता ।
शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒ताप॒ः सूर्यो॒ नक्ष॑त्रैरु॒र्व१॒॑न्तरि॑क्षम् ॥

पदपाठः

दे॒वाना॑म् । दू॒तः । पु॒रु॒ध । प्रऽसू॑तः । अना॑गान् । नः॒ । वो॒च॒तु॒ । स॒र्वऽता॑ता ।
शृ॒णोतु॑ । नः॒ । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । सूर्यः॑ । नक्ष॑त्रैः । उ॒रु । अ॒न्तरि॑क्षम् ॥

सायणभाष्यम्

पुरुध पुरुषु बहुषु देशेषु प्रसूतोऽग्निहोत्रार्थं विहितः । यद्वा । पुरुभिर्यजमानैः प्रसूतो यष्टव्यदेवाह्वानार्थं प्रेरितो देवानां दूतः । तथा च तैत्तिरीयकम् । अग्निर्देवानां दूत आसीदिति । तादृशोऽग्निः कर्मकर्तृसाधनवैगुण्येन सापराधानप्यस्माननागाननागसः । सर्वताता सर्वत्र वोचतु । ब्रवीतु । किञ्च पृथिवी द्यौश्च उतापि चापः सूर्यश्च नक्षत्रैरुरु विस्तीर्णमन्तरिकाहं च । एते सर्वे देवा नोऽस्मदीयां स्तुतिं शृणोतु । षृण्वन्तु । प्रत्येकविवक्शयैकवचनम् । प्रसूतः । षू प्रेरणे । कर्मणि क्तः । गतिरनन्तर इति गतेः प्रकृतिस्वरः । अनागान् । शसि सकारलोपश्छान्दसः । सवर्नदीर्घे कृते तस्माच्छसो न इति नत्वम् । वोचतु । वच परिभाषणे । व्यत्ययो बहुलमिति शपोऽङादेशः । वच उम् । गुणः । निघातः । नक्षत्रैः । नक्श गतौ । अमिनक्शियजिबन्धिपतिभ्योऽत्रन्नित्यत्रन्प्रत्ययः । नित्त्वादाद्युदात्तः । यद्वा । नक्षरति न क्षीयत इति वा नक्षत्रम् । नभ्राण्नपादिति नञः प्रक्रुतिभावः । नञः स्वरः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७