मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् २०

संहिता

शृ॒ण्वन्तु॑ नो॒ वृष॑ण॒ः पर्व॑तासो ध्रु॒वक्षे॑मास॒ इळ॑या॒ मद॑न्तः ।
आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ॑न्तु नो म॒रुत॒ः शर्म॑ भ॒द्रम् ॥

पदपाठः

शृ॒ण्वन्तु॑ । नः॒ । वृष॑णः । पर्व॑तासः । ध्रु॒वऽक्षे॑मासः । इळ॑या । मद॑न्तः ।
आ॒दि॒त्यैः । नः॒ । अदि॑तिः । शृ॒णो॒तु॒ । यच्छ॑न्तु । नः॒ । म॒रुतः॑ । शर्म॑ । भ॒द्रम् ॥

सायणभाष्यम्

वृषणोऽभिमतफलसेचका मरुतः पर्वतासः । पृणन्ति पूरयन्त्यर्थिनां कामानिति पर्वता गाव्राभिमानिनो देवाः ध्रुवक्षेमासो निश्चलस्थाना इलयाहविर्लक्षनेनान्नेन मदन्तो माद्यन्तः सन्तो नोऽस्मदीयां स्तुतिं शृण्वन्तु । किञ्च अदित्यैरपत्यभूतैरादित्यैरुपेतादितिर्नोऽस्मदीयां स्तुतिं शृणोतु । मरुतश्च नोऽस्म्भ्यं भद्रं कल्याणकरं शर्म सुखं यच्छन्तु । ददतु । आदित्यैः । अदितेरपत्यानीत्यर्थे दित्यदितिति ण्यः । प्रत्ययस्वरेणान्तोदात्तः । सुपा सहैकादेशे कृत एकादेश उदात्तः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७