मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् २१

संहिता

सदा॑ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा॑ देवा॒ ओष॑धी॒ः सं पि॑पृक्त ।
भगो॑ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ॥

पदपाठः

सदा॑ । सु॒ऽगः । पि॒तु॒ऽमान् । अ॒स्तु॒ । पन्थाः॑ । मध्वा॑ । दे॒वाः॒ । ओष॑धीः । सम् । पि॒पृ॒क्त॒ ।
भगः॑ । मे॒ । अ॒ग्ने॒ । स॒ख्ये । न । मृ॒ध्याः॒ । उत् । रा॒यः । अ॒श्या॒म् । सद॑नम् । पु॒रु॒ऽक्षोः ॥

सायणभाष्यम्

प्रवत्स्यन्यजमानः सदा सुग इत्यृचं जपन् गच्छेत् । सूत्रितं च । सदा सुगः पितुमाङ् अस्तु पन्था इति पन्थानमवरुह्य । आ. २-५ । इति ॥

हे अग्ने अस्माकं पन्था मार्गः सदा सर्वदा सुगः सुखेन गन्तुं शक्यः पितुमानन्नवांश्चास्तु । हे देवा मध्वा माधुर्योपेतेनोदकेनौशधीः सं पिपृक्त । संपर्चयत । सेचयतेत्सर्थेः । हे अग्ने त्वया सख्ये सञ्जाते सति मे मम भगो धनं न मृध्याः । न विनश्यतु । किञ्च रायो धनस्य पुरुक्शोर्बह्वन्नस्य च सदनं स्थानमुदश्याम् । प्राप्नुयाम् । सदा । स्वरादिष्वाद्युदात्तत्वेन पाठदाद्युदात्तः । पिपृक्त । पृची सम्पर्के । लोटि भौलं छन्दस्तीति शपः श्लुः । बहुलं छन्दसीत्यभ्यासस्येत्वम् । मृध्याः । मृधिर्हिंसार्थः । लिङि तिङा तिङो भवन्तिति तिपः सिप् ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७