मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५४, ऋक् २२

संहिता

स्वद॑स्व ह॒व्या समिषो॑ दिदीह्यस्म॒द्र्य१॒॑क्सं मि॑मीहि॒ श्रवां॑सि ।
विश्वाँ॑ अग्ने पृ॒त्सु ताञ्जे॑षि॒ शत्रू॒नहा॒ विश्वा॑ सु॒मना॑ दीदिही नः ॥

पदपाठः

स्वद॑स्व । ह॒व्या । सम् । इषः॑ । दि॒दी॒हि॒ । अ॒स्म॒द्र्य॑क् । सम् । मि॒मी॒हि॒ । श्रवां॑सि ।
विश्वा॑न् । अ॒ग्ने॒ । पृ॒त्ऽसु । तान् । जे॒षि॒ । शत्रू॑न् । अहा॑ । विश्वा॑ । सु॒ऽमनाः॑ । दी॒दि॒हि॒ । नः॒ ॥

सायणभाष्यम्

पुशो पुरोडाशस्विष्टकृतः स्वदस्व हव्येति याज्या । सुत्रितं च । स्वदस्व हव्या समिषो दिदीहीति पुरोडाशस्विश्टकृतः । आ. ३-५ । इति ।

हे अग्ने हव्या हवनयोग्यानि हवींशि स्वदस्व । स्वादय । अस्माकमिषोऽन्नानि सं दिदीहि । सम्यक् प्रकाशय । दीपितान तानि श्रवांस्यन्नान्यस्मद्र्यगस्मदभिमुखानि संमिमीहि सम्मानय । कुर्वित्यर्थः । ततः पृत्सु सङ्रामेषु तान्बाधकान्विश्वान्य शत्रून् ज्र्षि । जय । अथ सुमनाः शोभनमनस्कः सन् नोऽस्माकं विश्वाहा सर्वाण्यहानि दीदिहि । अग्निहोत्रादिकर्मयोग्यानि प्रकाशय । स्वदस्व । स्वद आस्वादने । लोटि रूपम् । थासो लसार्वधातुकस्वरे धातुस्वरः । दिदीहि । दिवु क्रीडादावित्यस्य लोटि बहुलं छन्दसिति विकरणस्य श्लुः । परत्वात् हलि चेति दीर्घत्वे कृते पश्चाद्वलि लोपः । निघातः । अस्मद्र्यक् । अस्मानञ्चतित्यन्तचतेः क्विप् । विष्वग्देवयोश्च टेरिति यणः स्वरितत्वम् । मिमीहि । माङ् माने शब्दे च । जुहोत्यादिः । तस्य लोटि व्यत्ययेन परस्मैपदम् । निघातः । सुमनाः । सोर्मनसीत्युतरपदाद्युदात्तत्वम् । दीदिहि । दिवेर्युङ् लुकि लोटि तुजादित्वादभ्यासस्य दीर्घः । वलि लोपः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७