मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् २

संहिता

मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे॑ अग्ने पि॒तरः॑ पद॒ज्ञाः ।
पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

मो इति॑ । सु । नः॒ । अत्र॑ । जु॒हु॒र॒न्त॒ । दे॒वाः । मा । पूर्वे॑ । अ॒ग्ने॒ । पि॒तरः॑ । प॒द॒ऽज्ञाः ।
पु॒रा॒ण्योः । सद्म॑नोः । के॒तुः । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

हे अग्ने अत्रास्मिन्काले देवा नोऽस्मान् सु सुष्थु मो जुहुरन्त । माहिंस्युः । तथा पदज्ञाः कर्माण्यनुष्ठाय देवपदमनुभवन्तः पूर्वे पुरातनाः पितरो मा हिंसिषुः । यस्मात्केतुर्यज्ञानां प्रज्ञापकः । सूर्यः पुरण्योः पुरातनयोः सद्मनोः । सीद्यन्त्यनयोर्देवमनुष्या इति सद्मनी रोदसी । तयोरन्तर्मध्य उदेति । तस्मादत्र मा हिंसन्त्वित्यर्थः । महद्देवानामित्यादि पुर्ववत् । जुहुरन्त । हृ प्रसह्यकरणे । लुङि जुहोत्यादित्वात् श्लुः । व्यत्ययेनात्मने पदम् । बहुलं छन्दसीत्युत्वम् । संज्ञापुर्वकस्य विधेरनित्यत्वाददादेशाभावेऽन्तादेशः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८