मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् ३

संहिता

वि मे॑ पुरु॒त्रा प॑तयन्ति॒ कामा॒ः शम्यच्छा॑ दीद्ये पू॒र्व्याणि॑ ।
समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

वि । मे॒ । पु॒रु॒ऽत्रा । प॒त॒य॒न्ति॒ । कामाः॑ । शमि॑ । अच्छ॑ । दी॒द्ये॒ । पू॒र्व्याणि॑ ।
सम्ऽइ॑द्धे । अ॒ग्नौ । ऋ॒तम् । इत् । व॒दे॒म॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

हे अग्ने मे मम पुरुत्रा बहवः कामा अभिलाषा वि पतयन्ति । विविधं गच्छन्ति । शम्यग्निष्टोमादिलक्षणं कर्माच्छाभिलक्ष्याहं पूर्व्याणि पुरातनानि स्तोत्राणि तदर्थं दीद्ये । दीपयामि । पश्चाद्यज्ञार्थमग्नौ समिद्धे दीप्यमाने सत्यृतमित् सत्यमेव वदेम । अनृतवचने हि यज्ञे वैगुण्यं स्यादिति । पुरुत्रा । देवमनुश्यपुरुषेत्यादिना त्राप्रत्ययः । पतयन्ति । पत्लृ गतौ । स्वार्थिको णच् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २८