मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् ६

संहिता

श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब॑न्ध॒नश्च॑रति व॒त्स एकः॑ ।
मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

श॒युः । प॒रस्ता॑त् । अध॑ । नु । द्वि॒ऽमा॒ता । अ॒ब॒न्ध॒नः । च॒र॒ति॒ । व॒त्सः । एकः॑ ।
मि॒त्रस्य॑ । ता । वरु॑णस्य । व्र॒तानि॑ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

द्विमाता । हे द्यावापृथिव्यौ मातरौ यस्य स द्विमाता । यद्वा । ध्वयोर्लोकयोर्निर्माता सूर्यः परस्तात्पश्चिमायां दिश्यस्तवेलायां शयुः शयानोऽव्याप्रियमाणो भवति । अधनु अथोदयवेलायामेको द्यावापृथिव्योः साधारणस्तयो रसादानाद्वत्सः पुत्रोऽबन्धनोऽप्रतिबद्धगतिरनालंबन एकः सन् चरति । नभसि गच्छति । ता तानीमानि मित्रस्य वरुणस्य मित्रावरुनयोर्व्रतानि कर्माणि । शयुः । शीङ् स्वप्ने । भृमृशीतॄचरीत्यादिना उप्रत्ययः । द्विमाता । नद्यृतश्चेति प्राप्तस्य कप ऋतश्छन्दसीति प्रतिषेधः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९