मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् ७

संहिता

द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः ।
प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

द्वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । स॒म्ऽराट् । अनु॑ । अग्र॑म् । चर॑ति । क्षेति॑ । बु॒ध्नः ।
प्र । रण्या॑नि । र॒ण्य॒ऽवाचः॑ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

द्विमाता द्वयोरोकयोर्निर्माता विदथेषु यज्ञेषु होता देवानामाह्वाता साम्राट् यज्ञेषु सम्यग्राजमानोऽग्निरन्वग्रमग्रे दिवि चरति । सूर्यभुतस्तत्र वर्तते । बुध्नः सर्वस्य कर्मणो मूलभूतः सन् क्षेति । भूमौ वसति । यद्वा । अग्रं मुख्यं भागं चरति । भक्षयति । क्षेति । यज्वनां गृहेषु निवसति । यद्वा । बुध्नः प्रतिष्ठान्तेभागी स्विष्टकृद्रूपेण । प्रतिष्ठा वै स्विष्टकृदिति श्रुतेः । किञ्च रण्यवाचो रमणीयवाचः स्तोतारो रण्यानि रमणीयानि स्तोत्राणि प्रभरन्ते । प्रणयन्ति । कुर्वन्ति । तदिदं देवानामैश्वर्यम् । चरति । चादिलोप इति न निघातः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९