मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् ९

संहिता

नि वे॑वेति पलि॒तो दू॒त आ॑स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ ।
वपूं॑षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

नि । वे॒वे॒ति॒ । प॒लि॒तः । दू॒तः । आ॒सु॒ । अ॒न्तः । म॒हान् । च॒र॒ति॒ । रो॒च॒नेन॑ ।
वपूं॑षि । बिभ्र॑त् । अ॒भि । नः॒ । वि । च॒ष्टे॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

पलितः पालयिता पूर्नो वा देवानां दूतोऽग्निरास्वोषधीषु निवेवेति । नितरां वाप्य वर्तते । महान् सोऽग्नी रोचनेन सूर्येण सहान्ता रोदस्योर्मध्ये चरति । वपूंषि नानाविधानि रूपाणि बिभ्रत् सोऽग्निर्नोऽस्मान् यष्टॄनभि विचष्टे । विशेषेणानुग्रहदृष्ट्या पश्यति । वेवेति । वी गत्यादिषु । यङ् लुकि ईडभावे रूपम् । रोचनेन । सहार्थे तृतीया । भिभ्रत् । डुभृञ् धारण पोषण् योरित्यस्य शतरि रूपम् । अभ्यस्तस्वरः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९