मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १०

संहिता

विष्णु॑र्गो॒पाः प॑र॒मं पा॑ति॒ पाथः॑ प्रि॒या धामा॑न्य॒मृता॒ दधा॑नः ।
अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

विष्णुः॑ । गो॒पाः । प॒र॒मम् । पा॒ति॒ । पाथः॑ । प्रि॒या । धामा॑नि । अ॒मृता॑ । दधा॑नः ।
अ॒ग्निः । ता । विश्वा॑ । भुव॑नानि । वे॒द॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

विष्णुर्व्याप्तो गोपाः सर्वस्य गोपयिता प्रिया प्रियतमान्यमृता क्षयरहितानि धामानि तेजांसि दधानः सोऽग्निः प्रममं पाथः स्थानं पाति । रक्षति । यद्वा । धामानि लोकधारकाण्यमृतोदकानि दधानः सन् परमं पाथ उदकस्य स्थानमन्तरिक्षं पाति । सोऽग्निस्ता तानि विश्वा सर्वाणि भुवनानि भुतजातानि वेद । जानाति । गोपाः । गोपायतेः क्विप्यतोलोपयलोपौ । अग्निष्टेत्यत्र संहितायां युष्मत्तत्त तक्षुः ष्वण्तः पादमिति षत्वं ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९