मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् ११

संहिता

नाना॑ चक्राते य॒म्या॒३॒॑ वपूं॑षि॒ तयो॑र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् ।
श्यावी॑ च॒ यदरु॑षी च॒ स्वसा॑रौ म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

नाना॑ । च॒क्रा॒ते॒ इति॑ । य॒म्या॑ । वपूं॑षि । तयोः॑ । अ॒न्यत् । रोच॑ते । कृ॒ष्णम् । अ॒न्यत् ।
श्यावी॑ । च॒ । यत् । अरु॑षी । च॒ । स्वसा॑रौ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

यम्या यमरूपे मिथुनभुते अहश्च रात्रिश्चेत्येते नाना नानाविधानि वपूंषि शुक्ल कृष्णादीनि रूपाणि चक्राते । कुरुतः । श्यावी कृष्णवर्णारुषी शुक्लतयारोचमाना यत् ये परस्परं स्वसारौ भवतस्तयोर्मध्येऽन्यदर्जुनमहोरोचते । किरनसंबन्धाद्दीप्यते । अन्यद्रात्रिलक्षणं कृष्णं तमस्संबन्धात् कृष्णवर्णमाभाति । यम्या । सुपो डादेशः । रोचते । एकान्याभ्यां समर्थाभ्यामिति न निघातः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०