मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १२

संहिता

मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची ।
ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची ।
ऋ॒तस्य॑ । ते इति॑ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

माता सर्वेषां निर्मातृत्वान्माता पृथिवी च दुहिता दुरे निहिता द्यौश्च । दुहिता दुर्हिता दूरे हिता दोग्देर्वेति यास्कः । एते सबर्दुघे सबरः स्वीयस्य क्षीररूपस्य रसस्य दोग्ध्र्यौ अत एव धेनू जगतः प्रीणयित्रौ द्यावा पृठिव्यौ यत्रान्तरिक्षे समीची परस्परं सङ्गते सत्यौ धापयेते स्वकीयं रसमन्योन्यं पाययेते ऋतस्योदकस्य सदसि स्थानभूते तस्मिन्नन्तरिक्षेऽन्तः स्थिते द्यावापृथिव्यावीळे । अहं स्त्ॐइ । यद्वा । वृष्टिलक्शणं रसं द्यौः पृथिवीं धापयति आहुतिलक्षनं रसं द्यां पृथिवीत्येवमन्योन्यं माता च दुहिता च भवतः । ऋतस्य सदसि स्थाने यज्ञसदने स्थितोऽहं ते उभे स्त्ॐइ । सबर्दुघे । सबः शब्दः क्षीरवाचीति सम्प्रदायविद आहुः । तस्मिन्नुपपदे दुह प्रपूरण इत्यस्माद्धातोर्दुहः । कब्घश्चेति कप्प्रत्ययो घश्चान्तादेशः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः । धापयेते । धेट् पान इत्यस्य ण्यन्तस्य लटि निगरणचलनार्थेभ्यश्चेति परस्मैपदे प्राप्ते पादिषु धेट् उपसंख्यानमित्यात्मनेपदम् । यद्वृत्तयोगादनिघातः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०