मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १४

संहिता

पद्या॑ वस्ते पुरु॒रूपा॒ वपूं॑ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा ।
ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

पद्या॑ । व॒स्ते॒ । पु॒रु॒ऽरूपा॑ । वपूं॑षि । ऊ॒र्ध्वा । त॒स्थौ॒ । त्रि॒ऽअवि॑म् । रेरि॑हाणा ।
ऋ॒तस्य॑ । सद्म॑ । वि । च॒रा॒मि॒ । वि॒द्वान् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

पद्या । जगत्स्रष्टुः परमेश्वरस्य पद्भ्यां जातत्वात्पद्या भूमिः । तथा च मन्त्रवर्णः । पद्भ्यां भूमिः । ऋग्वे. १०-९०-१४ । यद्वा । पादसञ्चारे साधुः पद्या भूमिः पुरुरूपा नानाविधस्वरूपाणि वपूंषि स्थावरजङ्गमात्मकानि रुपाणि वस्ते । आच्छादयति । सैषा भूमिरूर्ध्वोत्तरवेद्यात्मनोन्नता सती स्वसारभूतेन हविषात्र्यविम् । सार्धसंवत्सरवयस्को वत्सस्त्र्यविरित्युच्यते । तत्प्रमाणमादित्यम् । त्रीन् लोकानवति स्वतेजसा व्याअप्नोतीति त्र्यविरिति वा । रेरिहाना लिहती तस्थौ । ऋतस्य सत्यभूतस्यादित्यस्य सद्म स्थानं विद्वान् जानानोऽहं वि चरामि । हवर्भिस्तमादित्यं परिचरामि । पद्या । पादशब्दाद्भवे छन्दसीति यत् । पद्यत्यतदर्थे । पा. ६-३-५३ । इति पादस्य पद्भावः । यद्वा । तत्र साधुरिति यत् । यतोऽनात इत्याद्युदात्तत्वम् । त्र्यविम् । अव रक्षणादिषु । इन्नितीन्प्रत्ययः । कृत्स्वरः । रेरिहाणा । लिह आस्वादन इत्यस्य यङ्लुकि शानचि रूपम् । अभ्यस्तस्वरः ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०