मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १५

संहिता

प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो॑र॒न्यद्गुह्य॑मा॒विर॒न्यत् ।
स॒ध्री॒ची॒ना प॒थ्या॒३॒॑ सा विषू॑ची म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

प॒दे इ॒वेति॑ प॒देऽइ॑व । निहि॑ते॒ इति॒ निऽहि॑ते । द॒स्मे । अ॒न्तरिति॑ । तयोः॑ । अ॒न्यत् । गुह्य॑म् । आ॒विः । अ॒न्यत् ।
स॒ध्री॒ची॒ना । प॒थ्या॑ । सा । विषू॑ची । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

पदे इव । पद्यते ज्ञायेते तत्तदसाधारणलिङ्गेनेति पदे । अहश्च रात्रिश्चेत्येते दस्मे सर्वैर्दर्शनीये ते उभे अन्तर्नभसि मध्ये निहिते स्थापिते इव वर्तेते । तयोरहोरात्रयोरन्यद्रात्रिलक्षनं गुह्यमप्रकाशमानतया गूढमिवास्ते । अम्न्यदहराविः सूर्यप्रकाशेन प्रकटं भवति । सध्रीचीनाहोरात्रयोः परस्परमेलनरूपा पथ्या मार्गः । काल इत्यर्थः । सा विषूची । पुण्यक्रुतोऽपुण्यकृतश्च प्राप्नोतीति विषूची भवति । सर्वे जना अहोरात्रयोर्वर्तन्ते । यद्वा । पदे इव देवननुश्यादीनां स्थानभूते द्यावापृथिव्यावन्तरन्तरिक्षे निहिते वर्तेते । तयोरन्यद्ध्यौर्गुह्यमस्माभिरदृश्यमानतया गूढं वर्तते । अन्यत्पृथिव्याविः सर्वैर्दृश्यमानत्वेन प्रकटा भवति । सध्रीचीनेति पुर्ववत् । सध्रीचीना । सहपूर्वादन्चतेः क्विन् । शह्स्य सध्रीरिति सध्र्यादेशः । विभाषाण्चेरदिक् स्त्रियामिति खः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०