मण्डलवर्गीकरणम्

मण्डलम् ३, सूक्तम् ५५, ऋक् १६

संहिता

आ धे॒नवो॑ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघा॑ः शश॒या अप्र॑दुग्धाः ।
नव्या॑नव्या युव॒तयो॒ भव॑न्तीर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म् ॥

पदपाठः

आ । धे॒नवः॑ । धु॒न॒य॒न्ता॒म् । अशि॑श्वीः । स॒बः॒ऽदुघाः॑ । श॒श॒याः । अप्र॑ऽदुग्धाः ।
नव्याः॑ऽनव्याः । यु॒व॒तयः॑ । भव॑न्तीः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

सायणभाष्यम्

धेनवो वृष्टिद्वारा सर्वस्य जगतः प्रीणयित्र्योऽशिश्वीः शितुरहिताः । यद्वा । शिशवो न भवन्तीत्यशिश्वीः । शशया नभसि शयाना वर्तमानाः केनाप्यप्रदुग्धा अक्षीणरसाः सबर्दुघा उदकलक्षणस्य क्षीरस्य दोग्ध्र्यो युवतयः परस्परमिश्रणोपेतानव्या नव्या अतिशयेन नूतना भवन्तीर्दिशो मेघा वा आ धुनयन्ताम् । आदुहन्तु । मेघपक्षेऽशिस्वीर्भवन्तीत्यत्र लिङ्गव्यत्ययः । धुनयन्ताम् । धूञ् कम्पने । णिचि धूञ् प्रीणोर्नुग्वक्तव्यः । पा. ७-३-३७-१ । इति नुक् । ह्रस्वश्छान्दसः । अशिश्वी । सख्यशिश्वीति भाषायामिति व्यत्ययेन छन्दसि भवति ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१